गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: । जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ।। २.९२.
विविधान्यपि यानानि महान्ति च लघूनि च । प्रययु: सुमहार्हाणि पादैरेव पदातय: ।। २.९२.
अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: । रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ।। २.९२.
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् । आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ।। २.९२.
सा प्रयाता महासेना गजवाजिरथाकुला । दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ।। २.९२.
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: । गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ।। २.९२.
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ।। २.९२.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग:
thumb|त्रिनवतितमः सर्गः श्रूयताम्|center तया महत्या यायिन्या ध्वजिन्या वनवासिन: । अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ।। २.९३.
ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: । दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ।। २.९३.
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: । वृतो महत्या नादिन्या सेनया चतुरङ्गया ।। २.९३.
सागरौघनिभा सेना भरतस्य महात्मन: । महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ।। २.९३.
चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ।। २.९३.
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: । उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ।। २.९३.
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ।। २.९३.
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी । एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ।। २.९३.
गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति । वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ।। २.९३.
मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु । नीला इवातपापाये तोयं तोयधरा घना: ।। २.९३.
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ।। २.९३.
एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: । वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ।। २.९३.
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी । मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ।। २.९३.
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ।। २.९३.
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ।। २.९३.
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् । एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ।। २.९३.
एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् । एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ।। २.९३.
अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा । तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ।। २.९३.
मृगा मृगीभि: सहिता बहव: पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ।। २.९३.
साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ।। २.९३.
भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: । विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ।। २.९३.
ते समालोक्य धूमाग्रमूचुर्भरतमागता: । नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ।। २.९३.