कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता । समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ।। २.९२.
तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च । आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ।। २.९२.
सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: । तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ।। २.९२.
अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ।। २.९२.
आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम । समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ।। २.९२.
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: । आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ।। २.९२.
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजा भरद्वाजो महातपा: ।। २.९२.
भरतार्द्धतृतीयेषु योजनेष्वजने वने । चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ।। २.९२.
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ।। २.९२.
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: । तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ।। २.९२.
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते । वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ।। २.९२.
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: । हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ।। २.९२.
वेपमाना कृशा ऺदीना सह देव्या सुमित्रया । कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ।। २.९२.
असमृद्धेन कामेन सर्वलोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ।। २.९२.
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ।। २.९२.
तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: । विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ।। २.९२.
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: । उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ।। २.९२.
यामिमां भगवन् दीनां शोकानशनकर्शिताम् । पितुर्हि महिषीं देवीं देवतामिव पश्यसि ।। २.९२.
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् । कौसल्या सुषुवे रामं धातारमदितिर्यथा ।। २.९२.
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: । कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ।। २.९२.
एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ । उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ।। २.९२.
यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ । राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ।। २.९२.
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् । ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ।। २.९२.
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । यतो मूलं हि पश्यामि व्यसनं महदात्मन: ।। २.९२.
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ।। २.९२.
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा । प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ।। २.९२.
न दोषेणावगन्तव्या कैकेयी भरत त्वया । रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ।। २.९२.
देवानां दानवानां च ऋषीणां भावितात्मनाम् । हितमेव भविष्यद्धि रामप्रव्राजनादिह ।। २.९२.
अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् । आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ।। २.९२.
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् । अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ।। २.९२.