प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ।। २.९१.
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् । नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ।। २.९१.
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ।। २.९१.
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ।। २.९१.
इत्येवं रममाणानां देवानामिव नन्दने । भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ।। २.९१.
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ।। २.९१.
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: । तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ।। २.९१.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग:
thumb|द्विनवतितमः सर्गः श्रूयताम्|center ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: । कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ।। २.९२.
तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ।। २.९२.
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता । समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ।। २.९२.
तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च । आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ।। २.९२.
सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: । तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ।। २.९२.
अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ।। २.९२.
आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम । समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ।। २.९२.
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: । आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ।। २.९२.
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजा भरद्वाजो महातपा: ।। २.९२.
भरतार्द्धतृतीयेषु योजनेष्वजने वने । चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ।। २.९२.
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ।। २.९२.
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: । तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ।। २.९२.
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते । वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ।। २.९२.
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: । हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ।। २.९२.
वेपमाना कृशा ऺदीना सह देव्या सुमित्रया । कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ।। २.९२.
असमृद्धेन कामेन सर्वलोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ।। २.९२.
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ।। २.९२.
तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: । विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ।। २.९२.
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: । उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ।। २.९२.
यामिमां भगवन् दीनां शोकानशनकर्शिताम् । पितुर्हि महिषीं देवीं देवतामिव पश्यसि ।। २.९२.
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् । कौसल्या सुषुवे रामं धातारमदितिर्यथा ।। २.९२.
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: । कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ।। २.९२.