यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ।। २.९१.
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: । अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ।। २.९१.
तत: सरलतालाश्च तिलका नक्तमालका: । प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ।। २.९१.
शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: । मालती मल्लिका जातिर्याश्चान्या: कानने लता: ।। २.९१.
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् । सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: । मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ।। २.९१.
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ।। २.९१.
संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: । परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ।। २.९१.
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् । अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ।। २.९१.
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ।। २.९१.
नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: । मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ।। २.९१.
तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: । अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ।। २.९१.
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ।। २.९१.
इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: । अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ।। २.९१.
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: । भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ।। २.९१.
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: । समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ।। २.९१.
ततो भुक्तवतां तेषां तदन्नममृतोपमम् । दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ।। २.९१.
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: । बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ।। २.९१.
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: । बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ।। २.९१.
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा । रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ।। २.९१.
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: । फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ।। २.९१.
पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: । ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ।। २.९१.
बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: । ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ।। २.९१.
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: । प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ।। २.९१.
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ।। २.९१.
स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: । यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ।। २.९१.
ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे । बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ।। २.९१.
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ।। २.९१.
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् । शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ।। २.९१.
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । पादुकोपानहश्चैव युग्मानि च सहस्रश: ।। २.९१.
आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । मर्मत्राणानि चित्राणि शयनान्यासनानि च ।। २.९१.