तत्र राजासनं दिव्यं व्यजनं छत्रमेव च । भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ।। २.९१.
आसनं पूजयामास रामायाभिप्रणम्य च । वालव्यजनमादाय न्यषीदत् सचिवासने ।। २.९१.
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: । तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ।। २.९१.
ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: । उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ।। २.९१.
तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: । रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ।। २.९१.
तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: । आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ।। २.९१.
सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: । आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ।। २.९१.
याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते । आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ।। २.९१.
नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: । एते गन्धर्वराजानो भरतस्याग्रतो जगु: ।। २.९१.
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ।। २.९१.
यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ।। २.९१.
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: । अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ।। २.९१.
तत: सरलतालाश्च तिलका नक्तमालका: । प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ।। २.९१.
शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: । मालती मल्लिका जातिर्याश्चान्या: कानने लता: ।। २.९१.
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् । सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: । मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ।। २.९१.
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ।। २.९१.
संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: । परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ।। २.९१.
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् । अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ।। २.९१.
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ।। २.९१.
नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: । मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ।। २.९१.
तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: । अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ।। २.९१.
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ।। २.९१.
इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: । अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ।। २.९१.
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: । भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ।। २.९१.
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: । समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ।। २.९१.
ततो भुक्तवतां तेषां तदन्नममृतोपमम् । दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ।। २.९१.
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: । बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ।। २.९१.
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: । बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ।। २.९१.
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा । रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ।। २.९१.
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: । फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ।। २.९१.