राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा । यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ।। २.९१.
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: । प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ।। २.९१.
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । न हिंस्युरिति तेनाहमेक एव समागत: ।। २.९१.
आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा । ततस्तु चक्रे भरत: सेनाया: समुपागमम् ।। २.९१.
अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च । आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।। २.९१.
आह्वये विश्वकर्माणमहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.
प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च । पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ।। २.९१.
अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् । अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ।। २.९१.
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ।। २.९१.
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ।। २.९१.
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: । सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ।। २.९१.
वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् । दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ।। २.९१.
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ।। २.९१.
विचित्राणि च माल्यानि पादपप्रच्युतानि च । सुरादीनि च पेयानि मांसानि विविधानि च ।। २.९१.
एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च । शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ।। २.९१.
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: । आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ।। २.९१.
मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: । उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ।। २.९१.
ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: । दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ।। २.९१.
प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: । प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ।। २.९१.
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ।। २.९१.
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ।। २.९१.
बभूव हि समा भूमि: समन्तात्पञ्चयोजना । शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ।। २.९१.
तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: । आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ।। २.९१.
उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् । आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ।। २.९१.
चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् । हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ।। २.९१.
सितमेघनिभं चापि राजवेश्मसु तोरणम् । दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ।। २.९१.
चतुरश्रमसम्बाधं शयनासनयानवत् । दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् । उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।। २.९१.
क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । प्रविवेश महाबाहुरनुज्ञातो महर्षिणा । वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ।। २.९१.
अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: । बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ।। २.९१.