अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । जानन् दशरथं वृत्तं न राजानमुदाहरत् ।। २.९०.
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ।। २.९०.
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: । भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ।। २.९०.
किमिहागमने कार्य्यं तव राज्यं प्रशासत: । एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ।। २.९०.
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् । भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ।। २.९०.
नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: । वनवासी भवेतीह समा: किल चतुर्दश ।। २.९०.
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ।। २.९०.
एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह । पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ।। २.९०.
हतो ऽस्मि यदि मामेवं भगवानपि मन्यते । मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ।। २.९०.
न चैतदिष्टं माता मे यदवोचन्मदन्तरे । नाहमेतेन तुष्टश्च न तद्वचनमाददे ।। २.९०.
अहं तु तं नरव्याघ्रमुपयात: प्रसादक: । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ।। २.९०.
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे भगवन् राम: क्व सम्प्रति महीपति: ।। २.९०.
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: । उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ।। २.९०.
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ।। २.९०.
जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति । अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ।। २.९०.
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् । असौ वसति ते भ्राता चित्रकूटे महागिरौ ।। २.९०.
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: । एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ।। २.९०.
ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: । चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ।। २.९०.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितम: सर्ग:
thumb|एकनवतितमः सर्गः श्रूयताम्|center कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ।। २.९१.
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ।। २.९१.
अथोवाच भरद्वाजो भरतं प्रहसन्निव । जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ।। २.९१.
सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् । मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ।। २.९१.
किमर्थं चापि निक्षिप्य दूरे बलमिहागत: । कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ।। २.९१.
भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ।। २.९१.
राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा । यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ।। २.९१.
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: । प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ।। २.९१.
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । न हिंस्युरिति तेनाहमेक एव समागत: ।। २.९१.
आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा । ततस्तु चक्रे भरत: सेनाया: समुपागमम् ।। २.९१.
अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च । आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।। २.९१.