पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: । वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ।। २.८९.
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। २.८९.
ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ।। २.८९.
सवैजयन्तास्तु गजा गजारोहप्रचोदिता: । तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ।। २.८९.
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ।। २.८९.
सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् । मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।। २.८९.
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ।। २.८९.
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।। २.८९.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग:
thumb|नवतितमः सर्गः श्रूयताम्|center भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: । बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ।। २.९०.
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: । वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ।। २.९०.
तत: सन्दर्शने तस्य भरद्वाजस्य राघव: । मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ।। २.९०.
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: । सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ।। २.९०.
वसिष्ठसाहचर्य्यादिति भाव: ।। २.९०.
ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च । आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ।। २.९०.
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । जानन् दशरथं वृत्तं न राजानमुदाहरत् ।। २.९०.
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ।। २.९०.
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: । भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ।। २.९०.
किमिहागमने कार्य्यं तव राज्यं प्रशासत: । एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ।। २.९०.
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् । भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ।। २.९०.
नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: । वनवासी भवेतीह समा: किल चतुर्दश ।। २.९०.
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ।। २.९०.
एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह । पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ।। २.९०.
हतो ऽस्मि यदि मामेवं भगवानपि मन्यते । मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ।। २.९०.
न चैतदिष्टं माता मे यदवोचन्मदन्तरे । नाहमेतेन तुष्टश्च न तद्वचनमाददे ।। २.९०.
अहं तु तं नरव्याघ्रमुपयात: प्रसादक: । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ।। २.९०.
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे भगवन् राम: क्व सम्प्रति महीपति: ।। २.९०.
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: । उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ।। २.९०.
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ।। २.९०.
जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति । अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ।। २.९०.