उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा । तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-
हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम । ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-
सार्वभौम कुले जातः सर्व लोक सुख आवहः । सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-
कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः । सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः । भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-
सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् । वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-
अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा । गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-
न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् । वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-
शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् । अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-
अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् । शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-
अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा । फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-
तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने । तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-
वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति । लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-
अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः । अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् । प्रसाद्यमानः शिरसा मया स्वयम् । बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-
ततोन्रुवत्सयामि चिराय राघवम् । वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-
thumb|एकोननवतितमः सर्गः श्रूयताम्|center व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: । भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। २.८९.
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। २.८९.
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् । इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।। २.८९.
इति संवदतोरेवमन्योन्यं नरसिंहयो: । आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।। २.८९.
कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् । कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।। २.८९.
गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।। २.८९.
सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् । गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ।। २.८९.
ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।। २.८९.
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा । नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ।। २.८९.
ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् । पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ।। २.८९.
अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: । शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ।। २.८९.
तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् । तामारुरोह भरत: शत्रुघ्नश्च महाबल: ।। २.८९.
कौसल्या च सुमित्रा च याश्चान्या राजयोषित: । पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । अनन्तरं राजदारास्तथैव शकटापणा: ।। २.८९.
आवासमादीपयतां तीर्थं चाप्यवगाहताम् । भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।। २.८९.