प्रासाद अग्र विमानेषु वलभीषु च सर्वदा । हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-
पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु । पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-
गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः । मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-
बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः । गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-
अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा । मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-
न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-
विदेह राजस्य सुता सीता च प्रिय दर्शना । दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-
इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् । स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-
मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा । तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-
उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा । तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-
हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम । ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-
सार्वभौम कुले जातः सर्व लोक सुख आवहः । सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-
कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः । सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः । भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-
सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् । वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-
अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा । गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-
न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् । वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-
शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् । अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-
अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् । शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-
अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा । फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-
तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने । तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-
वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति । लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-
अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः । अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् । प्रसाद्यमानः शिरसा मया स्वयम् । बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-
ततोन्रुवत्सयामि चिराय राघवम् । वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-
thumb|एकोननवतितमः सर्गः श्रूयताम्|center व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: । भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। २.८९.
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। २.८९.
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् । इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।। २.८९.
इति संवदतोरेवमन्योन्यं नरसिंहयो: । आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।। २.८९.