सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् । स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-
तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया । प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-
एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् । यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-
नियम्य पृष्ठे तु तल अन्गुलित्रवान् । शरैः सुपूर्णाउ इषुधी परम् तपः । महद् धनुः सज्यम् उपोह्य लक्ष्मणो । निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-
ततः तु अहम् च उत्तम बाण चापधृक् । स्थितो अभवम् तत्र स यत्र लक्ष्मणः । अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् । महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-
thumb|अष्टाशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-
तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः । इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-
अब्रवीद् जननीः सर्वा इह तेन महात्मना । शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-
महा भाग कुलीनेन महा भागेन धीमता । जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-
अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये । शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-
प्रासाद अग्र विमानेषु वलभीषु च सर्वदा । हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-
पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु । पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-
गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः । मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-
बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः । गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-
अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा । मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-
न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-
विदेह राजस्य सुता सीता च प्रिय दर्शना । दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-
इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् । स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-
मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा । तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-
उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा । तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-
हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम । ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-
सार्वभौम कुले जातः सर्व लोक सुख आवहः । सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-
कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः । सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः । भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-
सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् । वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-
अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा । गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-
न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् । वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-
शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् । अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-