ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१-१६-
उपायः को वधे तस्य राक्षसाधिपतेः सुराः । यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥१-१६-
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषं रूपमास्थाय रावणं जहि संयुगे ॥१-१६-
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः । येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥१-१६-
संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः । नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥१-१६-
अवज्ञाताः पुरा तेन वरदाने हि मानवाः । एवं पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-
उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति । तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥१-१६-
इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् । पितरं रोचयामास तदा दशरथं नृपम् ॥१-१६-
स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः । अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥१-१६-
स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् । अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥१-१६-
ततो वै यजमानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥१-१६-
कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् । स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥१-१६-
शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥१-१६-
दिवाकरसमाकारं दीप्तानलशिखोपमम् । तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥१-१६-
दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् । प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥१-१६-
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥१-१६-
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥१-१६-
इदं तु नरशार्दूल पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥१-१६-
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै । तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥१-१६-
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥१-१६-
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् । मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥१-१६-
ततो दशरथः प्राप्य पायसं देवनिर्मितम् । बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥१-१६-
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥१-१६-
हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ । शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥१-१६-
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् । पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥१-१६-
कौसल्यायै नरपतिः पायसार्धं ददौ तदा । अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥१-१६-
कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् । प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥१-१६-
अनुचिन्त्य सुमित्रायै पुनरेव महामतिः । एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥१-१६-
ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः । सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥१-१६-
ततस्तु ताः प्राश्य तमुत्तमस्त्रियो :::महीपतेरुत्तमपायसं पृथक् । हुताशनादित्यसमानतेजसो- :::ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-