thumb|सप्ताशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-
गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् । ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-
सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः । पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-
प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः । पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-
भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः । बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-
तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः । परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-
ततः सर्वाः समापेतुर् मातरो भरतस्य ताः । उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-
ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् । कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-
वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी । परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-
पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते । अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-
त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते । वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-
कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् । पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-
स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः । कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-
भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः । अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-
सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः । यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-
अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च । रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-
तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः । न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-
न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा । इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-
लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः । औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-
ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा । वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-
सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् । स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-
तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया । प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-
एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् । यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-
नियम्य पृष्ठे तु तल अन्गुलित्रवान् । शरैः सुपूर्णाउ इषुधी परम् तपः । महद् धनुः सज्यम् उपोह्य लक्ष्मणो । निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-
ततः तु अहम् च उत्तम बाण चापधृक् । स्थितो अभवम् तत्र स यत्र लक्ष्मणः । अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् । महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-
thumb|अष्टाशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-
तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः । इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-
अब्रवीद् जननीः सर्वा इह तेन महात्मना । शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-
महा भाग कुलीनेन महा भागेन धीमता । जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-
अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये । शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-