अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः । धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-
न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा । चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-
एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना । अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-
कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-
महता तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-
अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-
कौसल्या चैव राजा च तथा एव जननी मम । न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥२-८६-
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् । राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-८६-
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते । प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-८६-
रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् । हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥२-८६-
गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् । सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-८६-
आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् । सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-८६-
अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् । निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥२-८६-
परिदेवयमानस्य तस्य एवम् सुमहात्मनः । तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-८६-
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ । अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥२-८६-
जटा धरौ तौ द्रुम चीर वाससौ । महा बलौ कुन्जर यूथप उपमौ । वर इषु चाप असि धरौ परम् तपौ । व्यवेक्षमाणौ सह सीतया गतौ ॥२-८६-
thumb|सप्ताशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-
गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् । ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-
सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः । पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-
प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः । पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-
भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः । बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-
तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः । परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-
ततः सर्वाः समापेतुर् मातरो भरतस्य ताः । उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-
ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् । कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-
वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी । परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-
पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते । अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-