मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-
तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् । बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-
स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् । पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-
धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले । अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-
शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति । यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-
एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा । बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-
सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः । शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-
राम चिन्तामयः शोको भरतस्य महात्मनः । उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-
अन्तर् दाहेन दहनः सम्तापयति राघवम् । वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-
प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः । यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-
ध्यान निर्दर शैलेन विनिह्श्वसित धातुना । दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-
प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना । आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-
विनिश्श्वसन्वै भृशदुर्मनास्ततः । प्रमूढसम्ज्ञः परमापदम् गतः । शमम् न लेभे हृदयज्वरार्दितो । नरर्षभो यूथहतो यथर्षभः ॥२-८५-
गुहेन सार्धम् भरतः समागतः । महा अनुभावः सजनः समाहितः । सुदुर्मनाः तम् भरतम् तदा पुनर् । गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-
thumb|षडशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-
आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः । भरताय अप्रमेयाय गुहो गहन गोचरः ॥२-८६-
तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् । भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२-८६-
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता । प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥२-८६-
उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः । धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥२-८६-
न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन । मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥२-८६-
अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः । धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-
न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा । चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-
एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना । अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-
कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-
महता तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-
अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-
कौसल्या चैव राजा च तथा एव जननी मम । न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-