यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् । वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-
सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् । समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-
विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः । प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-
एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः । समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-
तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् । यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-
एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना । हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-
ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च । श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-
ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे । यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-
ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः । सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-
सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ । रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-
भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः । रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-
स राघवः सत्य धृतिः प्रतापवान् । ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः । गुरुम् महा अरण्य गतम् यशस्विनम् । प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-
तूण समुत्थाय सुमन्त्र गच्च । बलस्य योगाय बल प्रधानान् । आनेतुम् इच्चामि हि तम् वनस्थम् । प्रसाद्य रामम् जगतः हिताय ॥२-८२-
स सूत पुत्रः भरतेन सम्यग् । आज्ञापितः सम्परिपूर्ण कामः । शशास सर्वान् प्रकृति प्रधानान् । बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-
ततः समुत्थाय कुले कुले ते । राजन्य वैश्या वृषलाः च विप्राः । अयूयुजन्न् उष्ट्र रथान् खरामः च। नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-
thumb|त्र्यशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-
ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् । प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-
अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः । अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-
नव नाग सहस्राणि कल्पितानि यथा विधि । अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-
षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-
शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी । राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-
प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् । तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-
मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् । कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-
दृष्टएव हि नः शोकम् अपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-
इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः । परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-
ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः । रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-
मणि काराः च ये केचित् कुम्भ काराः च शोभनाः । सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-
मायूरकाः क्राकचिका रोचका वेधकाः तथा । दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-
सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः । स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-