पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् । विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-
तस्य एषा धर्म राजस्य धर्म मूला महात्मनः । परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-
यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-
इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् । कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-
तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् । सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-
शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् । सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-
स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् । अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-
ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् । क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-
सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् । युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-
ततः हलहला शब्दो महान् समुदपद्यत । रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-
ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः । प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-
ह्रदैव तिमि नाग सम्वृतः । स्तिमित जलो मणि शन्ख शर्करः । दशरथ सुत शोभिता सभा । सदशरथा इव बभौ यथा पुरा ॥२-८१-
thumb|द्व्यशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-
ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् । ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-
आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा । अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-
सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा । अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-
राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् । इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-
तात राजा दशरथः स्वर् गतः धर्मम् आचरन् । धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-
रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् । न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-
पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् । तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-
उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः । कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-
तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः । जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-
स बाष्प कलया वाचा कल हम्स स्वरः युवा । विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-
चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः । धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-
कथम् दशरथाज् जातः भवेद् राज्य अपहारकः । राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-
ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः । लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-
अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि । इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-
यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये । इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-
रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः । त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-
तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः । हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-