इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः । त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-
भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः । न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-
सा पाद मूले कैकेय्या मन्थरा निपपात ह । निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-
शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् । समीक्ष्य कुब्जाम् भरतस्य माता । शनैः समाश्वासयद् आर्त रूपाम् । क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-
thumb|एकोनाशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-
ततः प्रभात समये दिवसे अथ चतुर्दशे । समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-
गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः । रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-
त्वम् अद्य भव नो राजा राज पुत्र महा यशः । सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-
आभिषेचनिकम् सर्वम् इदम् आदाय राघव । प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-
राज्यम् गृहाण भरत पितृ पैतामहम् महत् । अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-
आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् । भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-
ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः । न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-
रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः । अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-
युज्यताम् महती सेना चतुर् अन्ग महा बला । आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-
आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् । पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-
तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् । आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-
न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् । वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-
क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-
एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् । प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-
एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् । यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-
अनुत्तमम् तत् वचनम् नृप आत्मज । प्रभाषितम् सम्श्रवणे निशम्य च । प्रहर्षजाः तम् प्रति बाष्प बिन्दवो । निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-
ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः । सामात्याः सपरिषदो वियात शोकाः । पन्थानम् नर वर भक्तिमान् जनः च । व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-
thumb|अशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अशीतितमः सर्गः ॥२-
अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः । स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-
कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः । तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-
कूप काराः सुधा कारा वम्श कर्म कृतः तथा । समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-
स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् । अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-
ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः । करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-
लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च । जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-
अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् । केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-