ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः । क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-
अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः । यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-
सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् । कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-
स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः । विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-
तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः । चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-
तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् । अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-
स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः । कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-
तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता । शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-
ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् । अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-
हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् । यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-
इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः । त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-
भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः । न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-
सा पाद मूले कैकेय्या मन्थरा निपपात ह । निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-
शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् । समीक्ष्य कुब्जाम् भरतस्य माता । शनैः समाश्वासयद् आर्त रूपाम् । क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-
thumb|एकोनाशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-
ततः प्रभात समये दिवसे अथ चतुर्दशे । समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-
गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः । रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-
त्वम् अद्य भव नो राजा राज पुत्र महा यशः । सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-
आभिषेचनिकम् सर्वम् इदम् आदाय राघव । प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-
राज्यम् गृहाण भरत पितृ पैतामहम् महत् । अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-
आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् । भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-
ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः । न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-
रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः । अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-
युज्यताम् महती सेना चतुर् अन्ग महा बला । आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-
आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् । पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-
तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् । आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-
न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् । वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-
क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-
एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् । प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-
एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् । यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-