उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः । अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-
अन्त काले निपतितम् ययातिम् ऋषयो यथा । शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् । उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा । मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः । सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् । ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति । अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना । पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-
किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् । हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् । तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः । ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ । ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह । त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे । त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति । सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ । उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव । अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-
thumb|अष्टसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-
अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः । भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-
गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः । स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-
बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ । किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-
पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ । उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे । प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-
लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती । विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-
मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी । बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-
ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् । गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-
यस्याः कृते वने रामः न्यस्त देहः च वः पिता । सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-
शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः । अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-
तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः । यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-
एवम् उक्ता च तेन आशु सखी जन समावृता । गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-