ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा । अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥१-१५-
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः । चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-
तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् । वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥१-१५-
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् । हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥१-१५-
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥१-१५-
नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा । तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥१-१५-
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१-१५-
वैनतेयं समारुह्य भास्करस्तोयदम् यथा । तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-
ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः । तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया । राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ॥१-१५-
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः । तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥१-१५-
विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् । तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥१-१५-
अवध्यं दैवतैर्विष्णो समरे जहि रावणम् । स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥१-१५-
राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते । ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥१-१५-
क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः । वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥१-१५-
सिद्धगन्धर्वयक्षाश्च ततस्त्वां श्ररणं गताः । त्वं गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-
वधाय देवशतॄणां नृणां लोके मनः कुरु । एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥१-१५-
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः । अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥१-१५-
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् । सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ॥१-१५-
हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् । दशवर्षसहस्राणि दशवर्षशतानि च ॥१-१५-
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् । एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥१-१५-
मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः । ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥१-१५-
पितरं रोचयामास तदा दशरथं नृपम् । ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः । स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥१-१५-
तमुद्धतं रावणमुग्रतेजसं :::प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् । विरावणं साधु तपस्विकण्टकं :::तपस्विनामुद्धर तं भयावहम् ॥१-१५-
तमेव हत्वा सबलं सबान्धवम् :::विरावणं रावणमुग्रपौरुषम् । स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥१-१५-
thumb|षोडशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-
ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१-१६-
उपायः को वधे तस्य राक्षसाधिपतेः सुराः । यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥१-१६-
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषं रूपमास्थाय रावणं जहि संयुगे ॥१-१६-
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः । येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥१-१६-