कपालपाणिः पृथिवीमटताम् चीरसम्वृतः । भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-
यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-
सम्चितान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-
उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते । तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-
यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे । मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-
देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च । मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-
सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा । भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः । स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-
आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् । आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-
मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः । राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-
ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-
धर्मदारान् परित्यज्य परदारान्नि षेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-
विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-
पानीयदूषके पापम् तथैव विषदायके । यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-
ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः । बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-
तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् । लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-
विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः । एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-
तथा तु शपथैः कष्टैः शपमानम् अचेतनम् । भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-
मम दुह्खम् इदम् पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-
दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः । वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-
इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् । परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-
एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः । मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-
लालप्यमानस्य विचेतनस्य । प्रनष्ट बुद्धेः पतितस्य भूमौ । मुहुर् मुहुर् निह्श्वसतः च दीर्घम् । सा तस्य शोकेन जगाम रात्रिः ॥२-७५-
thumb|षट्सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-
तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् । उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-
अलम् शोकेन भद्रम् ते राज पुत्र महा यशः । प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-
वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः । प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-