आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् । विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-
कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन । सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-
प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु । हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-
कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् । अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् । ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-
बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः । अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-
सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् । ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-
हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले । मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-
उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता । स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-
मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् । द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-
पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः । गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-
गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् । मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-
विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् । विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः । लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-
पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः । स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-
अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् । अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-
मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः । आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-
राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते । भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-
लाक्षया मधुमाम्सेन लोहेन च विषेण च । सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-
सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे । पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-
कपालपाणिः पृथिवीमटताम् चीरसम्वृतः । भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-
यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-
सम्चितान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-
उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते । तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-
यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे । मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-
देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च । मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-
सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा । भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः । स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-