सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया । श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-
यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् । किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-
एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता । तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-
अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् । वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-
आनाययित्वा तनयम् कौसल्याया महा द्युतिम् । स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-
न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् । शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-
सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश । रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-
अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे । कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-
इति नागैव अरण्ये तोमर अन्कुश चोदितः । पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-
सम्रक्त नेत्रः शिथिल अम्बरः तदा । विधूत सर्व आभरणः परम्तपः । बभूव भूमौ पतितः नृप आत्मजः । शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-
thumb|पञ्चसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-
दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-
सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् । राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-
अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः । विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-
वनवासम् न जानामि रामस्यहम् महात्मनः । विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-
तथैव क्रोशतः तस्य भरतस्य महात्मनः । कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-
आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः । तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-
एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा । प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-
स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा । प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-
ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ । पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-
रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् । भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-
इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् । सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-
प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् । कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-
क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति । हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-
अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् । अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-
कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि । यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-
इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् । हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-
इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः । विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-
पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः । विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-
एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा । कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-