अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः । बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-
इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् । सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-
निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् । आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-
ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् । इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-
भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् । कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-
एवम् उक्ता तु सुरभिः सुर राजेन धीमता । पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-
शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप । अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-
एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ । अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-
मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ । यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-
यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् । ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-
सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया । श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-
यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् । किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-
एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता । तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-
अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् । वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-
आनाययित्वा तनयम् कौसल्याया महा द्युतिम् । स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-
न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् । शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-
सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश । रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-
अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे । कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-
इति नागैव अरण्ये तोमर अन्कुश चोदितः । पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-
सम्रक्त नेत्रः शिथिल अम्बरः तदा । विधूत सर्व आभरणः परम्तपः । बभूव भूमौ पतितः नृप आत्मजः । शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-
thumb|पञ्चसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-
दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-
सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् । राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-
अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः । विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-
वनवासम् न जानामि रामस्यहम् महात्मनः । विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-
तथैव क्रोशतः तस्य भरतस्य महात्मनः । कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-
आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः । तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-
एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा । प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-
स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा । प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-
ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ । पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-