सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् । दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-
अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा । सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-
न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् । यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-
उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि । साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-
अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते । अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-
न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे । गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-
सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते । राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-
तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् । अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः । बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-
न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये । त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-
एष त्विदानीमेवाहमप्रियार्थम् तवनघम् । निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-
निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः । दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-
इति एवम् उक्त्वा भरतः महात्मा । प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् । शोक आतुरः च अपि ननाद भूयः । सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-
thumb|चतुःसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-
ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा । रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-
राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि । परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-
किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः । ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-
भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् । कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-
यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा । सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-
त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः । अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-
मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके । न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-
कौसल्या च सुमित्रा च याः च अन्या मम मातरः । दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-
न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः । राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-
यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः । वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-
यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते । भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-
कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये । कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-
किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् । ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-
अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते । तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-
अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता । वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-
ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले । रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-