रामः च सह सौमित्रिः प्रेषितः सह सीतया । तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् । त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् । मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-
त्वदधीना हि नगरी राज्यम् चैतदनामयम् । तत् पुत्र शीघ्रम् विधिना विधिज्ञैः । वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः । सम्काल्य राजानम् अदीन सत्त्वम् । आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-
thumb|त्रिसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-
श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ । भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-
किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः । विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-
दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः । राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-
कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता । अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-
मृत्युमापादितो राजा त्वया मे पापदर्शिनि । सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-
त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः । तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-
विनाशितो महाराजः पिता मे धर्मवत्सलः । कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-
कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते । दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-
ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् । वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी । त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-
तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् । प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-
अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् । प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-
लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति । तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-
अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ । केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-
तम् हि नित्यम् महा राजो बलवन्तम् महा बलः । उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-
सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् । दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-
अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा । सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-
न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् । यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-
उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि । साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-
अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते । अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-
न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे । गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-
सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते । राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-
तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् । अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः । बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-
न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये । त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-