क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः । येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-
यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः । तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-
पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः । आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-
पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः । इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-
राम इति राजा विलपन् हा सीते लक्ष्मण इति च । स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-
इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव । काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-
सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह । लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-
तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् । विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-
क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-
तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे । माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-
स हि राज सुतः पुत्र चीर वासा महा वनम् । दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-
तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया । स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-
कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् । कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-
कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते । कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-
अथ अस्य चपला माता तत् स्व कर्म यथा तथम् । तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-
एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-
न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् । कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-
न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति । मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-
याचितः ते पिता राज्यम् रामस्य च विवासनम् । स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-
रामः च सह सौमित्रिः प्रेषितः सह सीतया । तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् । त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् । मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-
त्वदधीना हि नगरी राज्यम् चैतदनामयम् । तत् पुत्र शीघ्रम् विधिना विधिज्ञैः । वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः । सम्काल्य राजानम् अदीन सत्त्वम् । आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-
thumb|त्रिसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-
श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ । भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-
किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः । विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-
दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः । राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-
कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता । अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-
मृत्युमापादितो राजा त्वया मे पापदर्शिनि । सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-