शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः । न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-
राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने । तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-
पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः । आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-
तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् । अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-
या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः । राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-
तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः । पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-
हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् । निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-
ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः । विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-
एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा । शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-
तत् इदम् न विभाति अद्य विहीनम् तेन धीमता । व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-
बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः । आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-
तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि । निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-
मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः । उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-
उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः । त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-
दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा । बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-
स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च । जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-
अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति । इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-
तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम । पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-
अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते । धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-
न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् । उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-
क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः । येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-
यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः । तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-
पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः । आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-
पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः । इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-
राम इति राजा विलपन् हा सीते लक्ष्मण इति च । स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-
इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव । काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-
सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह । लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-
तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् । विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-
क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-