प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् । भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा । अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः । सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे । विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् । द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ । स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः । किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे । श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे । सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-
असम्यतकवाटानि श्रीविहीनानि सर्वशः । बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-
अनाशितकुटुम्बानि प्रभाहीनजनानि च । अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-
अपेतमाल्यशोभानि असम्मृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-
देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः । माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै । ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् । सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-
इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः । तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-
ताम् शून्य शृन्ग अटक वेश्म रथ्याम् । रजो अरुण द्वार कपाट यन्त्राम् । दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् । दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-
बहूनि पश्यन् मनसो अप्रियाणि । यानि अन्न्यदा न अस्य पुरे बभूवुः । अवाक् शिरा दीन मना नहृष्टः । पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-
thumb|द्विसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-
अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये । जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-
अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-
स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् । भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-
सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-
अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः । अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-
आर्यकः ते सुकुशलो युधा जिन् मातुलः तव । प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-
एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः । आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-
अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः । अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-
यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः । परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-
राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः । यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-