भवानेव महीं कृत्स्नामेको रक्षितुमर्हति । न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥१-१४-
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप । निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥१-१४-
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् । तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥१-१४-
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः । गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-
दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् । ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥१-१४-
ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते । ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥१-१४-
सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् । ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥१-१४-
जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा । दरिद्राय द्विजायथ हस्ताभरणमुत्तमम् ॥१-१४-
कस्मैचित् याचमानाय ददौ राघवनन्दनः । ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥१-१४-
प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः । तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-
उदारस्य नृवीरस्य धरण्यां पतितस्य च । ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥१-१४-
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः । ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा ॥१-१४-
कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत तथेति च स राजानमुवाच द्विजसत्तमः भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥१-१४-
स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रयतो नृपेन्द्रः । जगाम हर्षं परमं महात्मा तमृष्यशृङ्गं पुनरप्युवाच ॥१-१४-
thumb|पञ्चदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चदशः सर्गः ॥१-
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१-१५-
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् । अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥१-१५-
ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा ॥१-१५-
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥१-१५-
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः । अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः ॥१-१५-
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः । सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥१-१५-
त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा । मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥१-१५-
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः । शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥१-१५-
ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा । अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥१-१५-
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः । चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-
तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् । वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥१-१५-
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् । हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥१-१५-
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥१-१५-
नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा । तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥१-१५-
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१-१५-