बलेन गुप्तः भरतः महात्मा । सह आर्यकस्य आत्म समैः अमात्यैः । आदाय शत्रुघ्नम् अपेत शत्रुर् । गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-
thumb|एकसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-
स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् । ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् । शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-
एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् । शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् । अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च । उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-
वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् । यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः । तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-
राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् । भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-
भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् । उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-
स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् । सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-
तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् । वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-
तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ । उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः । अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-
वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् । अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत । ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-
एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् । कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः । वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह । ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् । एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका । यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता । अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् । उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा । तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-
अरण्य भूता इव पुरी सारथे प्रतिभाति मे । न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् । उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च । तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः । नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु । चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-