एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन । श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः । त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् । भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-
कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् । केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् । वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति । निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः । पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः । निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् । उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् । अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् । पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-
अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् । ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् । नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् । ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-
ते श्रान्त वाहना दूता विकृष्टेन सता पथा । गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् । भर्तुः च वम्शस्य परिग्रह अर्थम् । अहेडमानाः त्वरया स्म दूता । रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-
thumb|एकोनसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-
याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् । भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-
व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् । पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-
तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः । आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-
वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे । नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-
स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः । गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-
तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् । सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-
एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह । शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-
स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् । पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-
प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे । पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-
ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः । तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-
स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि । सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-