राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् । राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-
यमो वैश्रवणः शक्रो वरुणश्च महाबलः । विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-
अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन । राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-
जीवति अपि महा राजे तव एव वचनम् वयम् । न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-
स नः समीक्ष्य द्विज वर्य वृत्तम् । नृपम् विना राज्यम् अरण्य भूतम् । कुमारम् इक्ष्वाकु सुतम् वदान्यम् । त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-
thumb|अष्टषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-
यद् असौ मातुल कुले पुरे राज गृहे सुखी । भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः । आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-
गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् । तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-
एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन । श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः । त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् । भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-
कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् । केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् । वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति । निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः । पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः । निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् । उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् । अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् । पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-
अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् । ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् । नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् । ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-
ते श्रान्त वाहना दूता विकृष्टेन सता पथा । गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् । भर्तुः च वम्शस्य परिग्रह अर्थम् । अहेडमानाः त्वरया स्म दूता । रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-
thumb|एकोनसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-
याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् । भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-