एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् । वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-
अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा । अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-
स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः । लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-
उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ । पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-
इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् । अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-
न अराजले जन पदे विद्युन् माली महा स्वनः । अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-
न अराजके जन पदे बीज मुष्टिः प्रकीर्यते । न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-
अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके । इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-
न अराजके जन पदे कारयन्ति सभाम् नराः । उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-
न अराजके जन पदे यज्ञ शीला द्विजातयः । सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-
न अराजके जनपदे महायज्ञेषु यज्वनः । ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-
न अराजके जन पदे प्रभूत नट नर्तकाः । उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-
न अरजके जन पदे सिद्ध अर्था व्यवहारिणः । कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-
न अराजके जनपदे उद्यानानि समागताः । सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-
न अराजके जन पदे वाहनैः शीघ्र गामिभिः । नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-
न अराकजे जन पदे धनवन्तः सुरक्षिताः । शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-
न अराजके जनपदे बद्दघण्टा विषाणीनः । आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-
न अराजके जनपदे शरान् सम्ततमस्यताम् । श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-
न अराजके जन पदे वणिजो दूर गामिनः । गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-
न अराजके जन पदे चरति एक चरः वशी । भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-
न अराजके जन पदे योग क्षेमम् प्रवर्तते । न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-
न अराजके जनपदे हृष्टैः परमवाजिभिः । नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-
न अराजके जनपदे नराः शास्त्रविशारदाः । सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-
न अराजके जनपदे माल्यमोदकदक्षिणाः । देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-
न अराजके जनपदे चन्दनागुरुरूषिताः । राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-
यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् । अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-
ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः । तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-
न अराजके जन पदे स्वकम् भवति कस्यचित् । मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-
येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः । ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-
यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते । तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-