विहाय माम् गतः रामः भर्ता च स्वर् गतः मम । विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः । इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-
न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् । कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् । सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-
स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः । रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-
विदेह राजस्य सुता तहा सीता तपस्विनी । दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-
नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् । निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-
वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् । सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-
साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता । इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-
ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् । व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-
तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् । राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-
न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-
तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् । हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-
बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः । रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-
हा महाराज रामेण सततम् प्रियवादिना । विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-
कैकेय्या दुष्टभावाया राघवेण वियोजिताः । कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-
स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् । वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-
त्वया तेन च वीरेण विना व्यसनमोहिताः । कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-
यया तु राजा रामश्च लक्ष्मणश्च महाबलः । सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-
ता बाष्पेण च सम्वीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-
निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता । पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-
बाष्प पर्याकुल जना हाहा भूत कुल अन्गना । शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-
गत प्रभा द्यौर् इव भास्करम् विना । व्यपेत नक्षत्र गणा इव शर्वरी । निवृत्तचारः सहसा गतो रविः । प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-
ऋते तु पुत्राद्दहनम् महीपते । र्नरोचयन्ते सुहृदः समागताः । इतीव तस्मिन् शयने न्यवेशय । न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-
गतप्रभा द्यौरिव भास्करम् विना । व्यपेतनक्षत्रगणेव शर्वरी । पुरी बभासे रहिता मह आत्मना । न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-
नराः च नार्यः च समेत्य सम्घशो । विगर्हमाणा भरतस्य मातरम् । तदा नगर्याम् नर देव सम्क्षये । बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-
thumb|सप्तषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-
आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला । आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-
व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः । समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-
मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः । कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-