नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् । उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥१-१४-
शामित्रे तु हयस्तत्र तथा जलचराश्च ये । ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥१-१४-
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा । अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥१-१४-
कौसल्या तं हयं तत्र परिचर्य समन्ततः । कृपाणैर्विससारैनं त्रिभिः परमया मुदा ॥१-१४-
पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा । अवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥१-१४-
होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् । महिष्या परिवृत्त्याथ वावातामपरां तथा ॥१-१४-
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः ॥१-१४-
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः । यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥१-१४-
हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥१-१४-
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः । अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥१-१४-
त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥१-१४-
उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् । कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥१-१४-
ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ । अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥१-१४-
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः । अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥१-१४-
उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता । अश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥१-१४-
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः । ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥१-१४-
एवम् दत्त्वा प्रहृष्टोऽभूच्छ्रीमाननिक्ष्वाकुनन्दनः । ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥१-१४-
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति । न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥१-१४-
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप । निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥१-१४-
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् । तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥१-१४-
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः । गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-
दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् । ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥१-१४-
ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते । ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥१-१४-
सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् । ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥१-१४-
जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा । दरिद्राय द्विजायथ हस्ताभरणमुत्तमम् ॥१-१४-
कस्मैचित् याचमानाय ददौ राघवनन्दनः । ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥१-१४-
प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः । तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-
उदारस्य नृवीरस्य धरण्यां पतितस्य च । ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥१-१४-
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः । ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा ॥१-१४-
कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत तथेति च स राजानमुवाच द्विजसत्तमः भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥१-१४-