न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता । नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-
आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव । ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः । ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-
येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् । तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-
सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् । सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-
बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः । अतीतम् आज्ञाय तु पार्थिव ऋषभम् । यशस्विनम् सम्परिवार्य पत्नयः । भृशम् रुदन्त्यः करुणम् सुदुह्खिताः । प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-
thumb|षट्षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-
तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् । हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता । उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-
सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् । त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-
विहाय माम् गतः रामः भर्ता च स्वर् गतः मम । विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः । इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-
न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् । कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् । सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-
स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः । रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-
विदेह राजस्य सुता तहा सीता तपस्विनी । दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-
नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् । निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-
वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् । सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-
साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता । इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-
ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् । व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-
तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् । राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-
न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-
तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् । हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-
बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः । रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-
हा महाराज रामेण सततम् प्रियवादिना । विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-
कैकेय्या दुष्टभावाया राघवेण वियोजिताः । कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-
स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् । वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-
त्वया तेन च वीरेण विना व्यसनमोहिताः । कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-
यया तु राजा रामश्च लक्ष्मणश्च महाबलः । सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-
ता बाष्पेण च सम्वीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-