चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे । क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-
अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् । सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-
हा राघव महा बाहो हा मम आयास नाशन । हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ । राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-
यथा तु दीनम् कथयन् नर अधिपः । प्रियस्य पुत्रस्य विवासन आतुरः । गते अर्ध रात्रे भृश दुह्ख पीडितः । तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-
thumb|पञ्चषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-
अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि । वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-
सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः । गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-
राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-
ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः । अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-
व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः । आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-
ततः शुचि समाचाराः पर्युपस्थान कोविदः । स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-
हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः । आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-
मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् । उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-
सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् । सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-
ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् । तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-
अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः । ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-
तथाप्युचितवृत्तास्ता विनयेन नयेन च । न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-
ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु । ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-
प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे । अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः । कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते । निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-
न व्यराजत कौसल्या तारेव तिमिरावृता । कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-
न स्म विभ्राजते देवी शोकाश्रुलुलितानना । ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-
सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत । ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-
करेणवैव अरण्ये स्थान प्रच्युत यूथपाः । तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-
कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः । कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-
हा नाथ इति परिक्रुश्य पेततुर् धरणी तले । सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-