अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा । यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-
त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः । तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-
पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् । एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-
अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-
त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-
एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु । चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-
तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् । तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-
तस्यायम् कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-
तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः । यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-
चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश । इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-
एतन्मे सदृशम् देवि यन्मया राघवे कृतम् । सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-
यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा । यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-
चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते । दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-
अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये । न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-
तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः । उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-
न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् । मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-
पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् । धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-
सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-
निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् । द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-
कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे । वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-
चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे । क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-
अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् । सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-
हा राघव महा बाहो हा मम आयास नाशन । हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ । राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-
यथा तु दीनम् कथयन् नर अधिपः । प्रियस्य पुत्रस्य विवासन आतुरः । गते अर्ध रात्रे भृश दुह्ख पीडितः । तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-
thumb|पञ्चषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-
अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि । वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-
सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः । गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-
राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-