कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् । अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-
को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः । श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-
कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् । भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-
इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् । कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-
तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति । श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-
उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने । क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-
ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् । क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-
दातुमर्हति धर्मात्मा लोकपालो महायशाः । ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-
अपापो असि यथा पुत्र निहतः पाप कर्मणा । तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-
यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः । हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-
याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः । नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-
या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या । भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि । देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-
न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् । स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-
एवम् स कृपणम् तत्र पर्यदेवयत असकृत् । ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-
स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः । स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-
आबभाषे च वृद्धौ तौ सह शक्रेण तापसः । आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-
स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् । भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-
एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-
स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-
अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा । यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-
त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः । तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-
पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् । एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-
अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-
त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-
एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु । चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-
तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् । तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-
तस्यायम् कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-
तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः । यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-
चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश । इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-