क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः । सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-
भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः । जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-
ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः । द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-
गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि । विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-
भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना । विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-
ततस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-
स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः । भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-
अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया । शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-
स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः । नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-
सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-
यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् । फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-
क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः । ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-
सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-
अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि । अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-
नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत । अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् । शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-
अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ । अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-
तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ । निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-
न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक । किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-
न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक । किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-
कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् । अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-
को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः । श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-
कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् । भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-
इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् । कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-
तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति । श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-
उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने । क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-
ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् । क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-
दातुमर्हति धर्मात्मा लोकपालो महायशाः । ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-
अपापो असि यथा पुत्र निहतः पाप कर्मणा । तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-
यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः । हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-