स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् । इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-
किम् तव अपकृतम् राजन् वने निवसता मया । जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-
एकेन खलु बाणेन मर्मणि अभिहते मयि । द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-
तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ । चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-
न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा । पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-
जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः । चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-
पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव । न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-
इयम् एक पदी राजन् यतः मे पितुर् आश्रमः । तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-
विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः । रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति । इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-
दुःखितस्य च दीनस्य मम शोकातुरस्य च । लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-
ताम्यमानः स माम् दुःखादुवाच परमार्तवत् । सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-
सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् । ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-
न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा । शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-
इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः । विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् । तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-
जल आर्द्र गात्रम् तु विलप्य कृच्चान् । मर्म व्रणम् सम्ततम् उच्चसन्तम् । ततः सरय्वाम् तम् अहम् शयानम् । समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-
thumb|चतुःषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-
वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः । विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-
तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः । एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-
ततः तम् घटम् आदय पूर्णम् परम वारिणा । आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-
तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ । अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ । ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-
शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः । तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-
पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत । किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-
यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया । उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-
यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया । न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-
त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् । समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-
मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया । हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-
मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् । आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-