आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि । उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-
तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी । व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-
निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् । अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-
तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः । तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-
अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् । अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः । ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् । अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः । हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी । कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-
प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः । इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-
ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः । कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-
जटा भार धरस्य एव वल्कल अजिन वाससः । को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-
एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् । न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-
नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः । मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-
तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया । मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-
वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः । केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-
तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः । कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-
तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु । सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-
तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः । अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् । पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-
स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् । इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-
किम् तव अपकृतम् राजन् वने निवसता मया । जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-
एकेन खलु बाणेन मर्मणि अभिहते मयि । द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-
तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ । चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-
न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा । पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-
जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः । चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-
पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव । न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-
इयम् एक पदी राजन् यतः मे पितुर् आश्रमः । तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-
विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः । रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति । इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-