प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते । याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-
न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता । उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-
जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् । पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-
शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् । शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-
शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः । सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-
दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः । यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-
वन वासाय रामस्य पन्च रात्रः अद्य गण्यते । यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-
तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते । अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-
एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः । मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-
तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः । शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-
thumb|त्रिषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-
प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः । अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-
राम लक्ष्मणयोः चैव विवासात् वासव उपमम् । आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-
सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः । विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-
स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् । अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-
स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः । कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-
यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् । तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-
गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् । दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-
कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति । पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-
अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति । स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-
सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् । रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-
लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता । कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-
तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् । सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-
यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् । एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-
देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् । ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-
उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः । परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-
उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः । ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-
क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः । वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-
पतितेन अम्भसा चन्नः पतमानेन च असकृत् । आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-
पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि । सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-