यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः । निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-
भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् । ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-
तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः । न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः । नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-
एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते । भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-
न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति । एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-
हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः । न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-
तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव । न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-
न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति । बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-
नैतस्य सहिता लोका भयम् कुर्युर्महामृधे । अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः । युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-
स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः । स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-
द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः । यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-
गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः । तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-
तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः । न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-
हतम् त्वया राज्यम् इदम् सराष्ट्रम् । हतः तथा आत्मा सह मन्त्रिभिः च । हता सपुत्रा अस्मि हताः च पौराः । सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-
इमाम् गिरम् दारुण शब्द सम्श्रिताम् । निशम्य राजा अपि मुमोह दुह्खितः । ततः स शोकम् प्रविवेश पार्थिवः । स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-
thumb|द्विषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-
एवम् तु क्रुद्धया राजा राम मात्रा सशोकया । श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः । अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-
स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् । कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् । यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-
अमनाः तेन शोकेन राम शोकेन च प्रभुः । द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-
दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः । वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-
प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः । वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-
भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा । धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-
सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर । न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-
तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-
स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् । सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-