इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् । कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-
ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् । ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-
अध्वना वात वेगेन सम्भ्रमेण आतपेन च । न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-
सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् । वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-
अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ । अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-
नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी । इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-
गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता । न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-
न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः । इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-
विधूय शोकम् परिहृष्ट मानसा । महर्षि याते पथि सुव्यवस्थिताः । वने रता वन्य फल अशनाः पितुः । शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-
तथा अपि सूतेन सुयुक्त वादिना । निवार्यमाणा सुत शोक कर्शिता । न चैव देवी विरराम कूजितात् । प्रिय इति पुत्र इति च राघव इति च ॥२-६०-
thumb|एकषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-
वनम् गते धर्म परे रामे रमयताम् वरे । कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-
यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः । सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया । दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-
सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता । कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-
भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् । वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-
गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता । कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-
महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः । भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-
पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् । कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-
वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः । अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-
यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः । निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-
भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् । ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-
तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः । न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः । नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-
एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते । भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-
न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति । एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-
हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः । न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-
तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव । न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-
न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति । बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-