देव राजरथम् दृष्ट्वा विना राममिहागतम् । दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-
हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् । हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-
आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः । अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-
न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च । अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-
अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा । आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-
निरानन्दा महा राज राम प्रव्राजन आतुला । कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-
सूतस्य वचनम् श्रुत्वा वाचा परम दीनया । बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-
कैकेय्या विनियुक्तेन पाप अभिजन भावया । मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-
न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः । मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-
भवितव्यतया नूनम् इदम् वा व्यसनम् महत् । कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-
सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् । त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-
यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् । न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-
अथवा अपि महा बाहुर् गतः दूरम् भविष्यति । माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-
वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः । यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-
लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् । रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-
अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् । इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥२-५९-
हा राम राम अनुज हा हा वैदेहि तपस्विनी । न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-
स तेन राजा दुःखेन भृशमर्पितचेतनः । अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-
रामशोकमहाभोगः सीताविरहपारगः । श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः । प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः । वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-
यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना । दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-
अशोभनम् यो अहम् इह अद्य राघवम् । दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥२-५९-
इति विलपति पार्थिवे प्रनष्टे । करुणतरम् द्विगुणम् च राम हेतोः । वचनम् अनुनिशम्य तस्य देवी । भयम् अगमत् पुनर् एव राम माता ॥२-५९-
thumb|षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-
ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः । धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-
नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः । तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-
निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि । अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-
बाष्प वेगौपहतया स वाचा सज्जमानया । इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-
त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा । व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-