माता च मम कौसल्या कुशलम् च अभिवादनम् । अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-
धर्मनित्या यथाकालमग्न्यगारपरा भव । देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-
अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु । अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-
कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् । अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-
भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च । सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-
वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः । पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-
अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः । कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-
अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् । मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-
इति एवम् माम् महाराज बृवन्न् एव महा यशाः । रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-
लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् । केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-
राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् । कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-
यदि प्रव्राजितः रामः लोभ कारण कारितम् । वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-
इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् । रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-
असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् । जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-
अहम् तावन् महा राजे पितृत्वम् न उपलक्षये । भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-
सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् । सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-
सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् । सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-
जानकी तु महा राज निःश्वसन्ती तपस्विनी । भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-
अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी । तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-
उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता । मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-
तथैव रामः अश्रु मुखः कृत अन्जलिः । स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः । तथैव सीता रुदती तपस्विनी । निरीक्षते राज रथम् तथैव माम् ॥२-५८-
thumb|एकोनषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-
मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि । उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-
उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् । प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-
गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् । आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-
विषये ते महा राज माम व्यसन कर्शिताः । अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-
उपतप्तोदका नद्यः पल्वलानि सराम्सि च । परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-
न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च । राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-
लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः । सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-
जलजानि च पुष्पाणि माल्यानि स्थलजानि च । न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-