सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा । धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-
एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि । पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-
ततः तम् अन्तः पुर नादम् उत्थितम् । समीक्ष्य वृद्धाः तरुणाः च मानवाः । स्त्रियः च सर्वा रुरुदुः समन्ततः । पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-
प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः । थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-
तदा सूतो महाराज कृताञ्जलिरुपस्थितः। राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-
वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् । विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-
राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् । अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-
क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः । सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-
दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः । भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-
यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः । स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-
व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् । कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया । राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-
सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ । वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-
किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः । सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-
आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय । जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-
इति सूतः नर इन्द्रेण चोदितः सज्जमानया । उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-
अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् । अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-
सूत मद्वचनात् तस्य तातस्य विदित आत्मनः । शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-
सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया । आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-
माता च मम कौसल्या कुशलम् च अभिवादनम् । अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-
धर्मनित्या यथाकालमग्न्यगारपरा भव । देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-
अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु । अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-
कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् । अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-
भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च । सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-
वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः । पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-
अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः । कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-
अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् । मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-
इति एवम् माम् महाराज बृवन्न् एव महा यशाः । रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-
लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् । केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-